________________
ॐ तत् सत्
श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्य
श्रीमद्ब्रह्मसूत्रानुव्याख्यानस्य टीका
श्रीमज्जयतीर्थमुनिविरचिता
श्रीमन्न्यायसुधा
ॐ ।। श्रियः पत्ये नित्यागणितगुणमाणिक्यविशद-
प्रभाजालोल्लासोपहतसकलावद्यतमसे ।
जगज्जन्मस्थेमप्रलयरचनाशीलवपुषे नमोऽशेषाम्नायस्मृतिहृदयदीप्ताय हरये
येन प्रादुरभाव भूमिवलये व्यस्तारि गोसन्ततिः प्राबोधि श्रुतिपङ्कजं करुणया प्राकाशि तत्वं परम् । ध्वान्तं ध्वंसमनायि साधुनिकरश्चाकारि सन्मार्गग- स्तेन व्यासदिवाकरेण सततं मा त्याजि मे मानसम् व्याप्तिर्यस्य निजे निजेन महसा पक्षे सपक्षे स्थिति- र्व्यावृत्तिश्च विपक्षतोऽथ विषये सक्तिर्नवै बाधिते । नैवास्ति प्रतिपक्षयुक्तिरतुलं शुद्धं प्रमाणं स मे
112 11
॥२॥
भूयात् तत्वविनिर्णयाय भगवानानन्दतीर्थो मुनिः
॥३॥
भवति यदनुभावादेडमूकोऽपि वाग्मी
जडमतिरपि जन्तुर्जायते प्राज्ञमौलिः ।
सकलवचनचेतोदेवता भारती सा
मम वचसि निधत्तां सन्निधिं मानसे च
।।४।।
1